Blog

संस्कृत साहित्यं व्यक्तित्वविकासः

DINESH BABU KANDUKURI

RESEARCH SCHOLAR

DEPARTMENT OF SANSKRIT

ANDHRA UNIVERSITY

MOBILE NUMBER:  9849745820

E-MAIL : [email protected]

उपोद्घातः-

सकलानां संस्कृतीनां सर्वेषां संप्रदायानां च प्रभावस्थानं इयं संस्कृतभाषेति सर्वेऽपि प्राच्यपाश्चात्यविदुषः कीर्तयन्ति ।‘‘संस्कृतम्  नाम  दैवीवाक् अन्वाख्याता महर्षिभिः‘‘ इति अभियुक्तवचनात् अमृता भाषा देवभाषेति च जेगीयते  चेयम् । सुबोधा, रमणीया , मधुरा चेयं सर्वविधानां  भाषाविज्ञानानां मूलभूतेति भाषाशास्त्रज्ञाः वदन्ति । अतएव संस्कृतभाषायां साहित्यविषयं उक्त्वा तस्मिन् व्यक्तित्त्वविकासमधिकृत्य कथं प्रस्तुतवन्तः  इति परिशीलयामः ।

प्राचीनाः लाक्षणिकाः वाङ्मयं वेद-पुराण-काव्यभेदेन विभज्य तेषां स्वरूपं स्वभावं च विवृतवन्तः । वेदः शब्दप्रधानः प्रभुसम्मितश्च  । प्रभुशासनमिव वेदशासनमप्यनुल्लंघ्यम्। पुराणानि तु अर्थप्रधानानि  सुहृत्सम्मितानि च । तानि च वेदपरमार्थानेव सुबोधकतया कथारूपेण  उपवर्ण्य मित्रमिव कर्तव्याकर्तव्योपदेशं कुर्वन्ति । काव्यानि उक्तिप्रधानानि कान्तासम्मितानि  च  भवन्ति । यद्यपि वेदपुराणकाव्येभ्यो जायमानः  कर्तव्योपदेशः समानः तथापि उपदेशशैलीभेदात् ते भिन्नाः । सरसोपदेशस्तु काव्ये विशेषः ।

‘‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।

बिभेत्यल्पश्रुताद्वेदो मामयंप्रहरिष्यति ‘‘।।  इति प्रसिद्धमेव ।

संस्कृतसाहित्यं न केवलं आर्याणामेव अपितु मानवजातेरेवामूल्यः अक्षमश्च सांस्कृतिक निधिः व्यक्तित्वविकास जनकः । अस्मिन् मानवजीवनस्य चत्वारो पुरुषार्था धर्मार्थकाममोक्षाः साङ्गोपाङ्गं विवेचिताः सन्ति । अस्य किं वा वैदिक-मुतवा लौकिकमपि साहित्यं समग्रमेव मानवमूल्यमात्मसात्कृत्य व्याख्याति ।

कवेः कर्म काव्यम् । कवि शब्दः प्रप्रथमतया वेदेषु  परमात्मपरेण प्रयुक्तः । तदनन्तरं कवि शब्दः  परमात्म  साक्षात्कारं  ऋषयः  उपयुक्तः ।  वेदमन्त्राणां   दार्शनिक महर्षयः कवयः । इतिहासानां रामायण महाभारतानां लेखकाः वाल्मीकि, व्यासादि ऋषयः एव । ऐते महाकाव्यानि लिखितवन्तः ।

काव्यस्य  आनन्दः  प्रधानप्रयोजनम् । धर्मार्थकाममोक्ष प्रसादः काव्यं तस्मात् आन्ध्रशब्दचिन्तामणि कर्ता ‘‘विश्वश्रेयः काव्यम्‘‘ इत्यवदत् ।

काव्यप्रकाशः, रसगङ्गाधरः, साहित्यदर्पणम् , ध्वन्यालोकः, दशरूपकम् इत्यादयः लक्षणग्रन्थाः ।  रघुवंशम्,  कुमारसम्भवम् ,   भट्टिकाव्यमित्यादि  महाकाव्यानि  सन्ति । व्याकरणशास्त्रेषु तत्तद्विषयाणामेव प्राधान्यं भवति । साहित्ये तु व्याकरणं, छन्दः, ज्यौतिषम् दर्शनानि ,  राजनीतिः , पुराणेतिहासः सर्वेऽपि विषयाः  विलसन्ति । एतस्मात्  कारणात् सर्वेषां विषयाणां सहितत्वात् साहित्यम् इत्यपि वक्तुं शक्यते ।

इदमेव साहित्यम् एकमात्रं मानवसभ्यताया संस्कृतेः स्वाधीनतादीनां विकासस्य सरलं साधनम् । अनेन  साहित्येन   राष्ट्रे समाजे  जातौ व्यक्तौ  च  नवीनां जीवनं विराजमानं विलसति अस्मिन्नेव समाजस्य प्रान्तस्य देशस्य वा  उत्कर्षस्य  वा सामाजीकरोति  नीतीनां  जातीयविचाराणां व्यवहाराणाञ्च  दर्शनं  जायेत् । एतस्मादेव कारणात् जातेः समैक्यता देशस्य दर्पणं सहितम् इत्यभिधीयते  विद्वद्भिः ।

साहित्यम्  नाम शास्त्रम् । शास्त्रम्  नाम  शास्ति  प्रशासनं  करोति  इति  शास्त्रम् , अर्थात्  यत्शासनं  कर्तृ साहित्यशास्त्रस्यापि   शासनकर्तृत्वात्   शास्त्रमिति   वक्तुं  शक्यते । साहित्यम्  न  केवलं  रसब्रह्मप्रतिपादिकं   प्रत्युत  अप्रतिभात्वेन   अनन्यलभ्येन  हृदयस्य  औदार्येणनैसर्गिकेण  कारुण्येन सर्वजनानामभिलषितेन शब्दमाधुर्येण   ललनानां लावण्यभारेण सौन्दर्यसारेण च सर्वेषामुपरि विराजते ।

एतादृश  साहित्यशास्त्रे  सन्ति  बहूनि काव्यानि  तदादौ  दृश्यं, श्रव्यं चेति मुख्यतया  काव्यं द्विविधं भवति । तत्र श्रव्यकाव्यं यथा- गद्यकाव्यानि , पद्यकाव्यानि , चम्पूकाव्यानि , खण्डकाव्यानि , गीतिकाव्यानि इत्यादीनि । एतदतिरिच्य   दृश्यकाव्यानि  च  सत्सु  बहुषु काव्येषु  श्रव्यकाव्यादीनां  महती  कीर्तिः  वरीवर्ति । तत्रापि पद्यकाव्यानां इतोऽपि वैशिष्ट्यं वर्तते ।  एतादृश  काव्यप्रपञ्चे  व्यक्तित्वविकासकारणानि बहूनि   सन्ति  । तेषु  भारतीय-आलङ्कारिकेषु  प्रतिपादित  विषयानि पश्यन्ति   चेत्    एतद्    विषयं   स्पष्टं  भवति । केचन आलङ्कारिकवचनानि शास्त्रंबोधयति ,स्वाभिप्रायं   प्रकटयति , परिशीलनात्मकदृष्टिं प्रतिपादयति , व्यक्तित्वविकासमपि वृद्धिं प्राप्नोति ।

भारतीय आलङ्कारिकेषु केचन शब्दं काव्यं इति उच्यते । अन्यः द्वौ शब्दार्थौ काव्यं इति कथ्यते ।

अत्र भरतः-    ‘‘इतिवृत्तन्तु काव्यस्य शरीरं परिकीर्तितम्‘‘ ।

दण्डिः-   ‘‘इष्टार्थव्यवच्छिन्ना पदावली काव्यम्‘‘।

रमणीयार्थ सहितयुक्त पदानां समूहं काव्यं इति एतस्य अर्थः।

भामहः-  ‘‘शब्दार्थौ सहितौ काव्यम‘‘। सहितशब्दार्थाः एव काव्यम् इत्यर्थः ।

भोजः-   ‘‘निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।

रसात्मकं कविः कुर्वन् कीर्ति प्रीतिञ्च विन्दति ।। इति ।‘‘

रुद्रटः-    ‘‘शब्दार्थौ काव्यम्‘‘।

वामनः-    ‘‘काव्यशब्दोऽय गुणालङ्कारः‘‘।

वाग्भटः-   ‘‘साधुशब्दार्थसन्दर्भं गुणालङ्कारभूषितं ।

स्पुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये‘‘।।

मम्मटः-    ‘‘तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनःक्वापि‘‘।

विश्वनाथः-  ‘‘वाक्यं रसात्मकं काव्यम् ‘‘।

जगन्नाथः-   ‘‘रमणीयार्थ प्रतिपादकशब्दःकाव्यम् ‘‘।

एवमेव राजशेखरः , आनन्दवर्धनः, इत्यादयाः आलङ्कारिकाः तेषां  अभिप्रायः उच्यन्ते ।

सृष्टौ  मानवस्य विशिष्टतायाः कारणं इतर जीवरहितज्ञानं तस्य सिध्यति । एतादृश ज्ञानस्य सत्वात् मानवाः कवयः इति वक्तुं न शक्यते ।  सर्वे कवयः महाकवयः न ।  सहृदय पाठकाः  पुस्तक  पठन  द्वारा  पाण्डित्यं  संपादयति  किन्तु कवित्वं लिखितुं न शक्नुवन्ति । महापण्डिताः  अपि कवयः  कवित्वरचना  प्रतिभा जन्मान्तरतः एव सिध्यति इति केषांचन अभिप्रायः ।   कविता  कौशल   सिध्यर्थं   कश्चित्  हेतुः अस्ति ।  एतदेव  भारतीयालङ्कारिकैः  काव्यहेतुः  इति साधना सामग्री इति उच्यते ।

संगीतस्य आपातात् एव आनन्दः जायते । किन्तु स आनन्दः तात्कालिकाः । साहित्ये  तु  स  आनन्दः  न  तात्कालिकः ।  यदा   यदा  तत्तद्विषया  आलोच्यन्ते  तदा  तदा  आनन्दं  अनुभूयते एव  । अत एव आलोचनामृतमिति कथितम् ।   अपि  च  काव्यस्य  केवलम्  आनन्द एव न प्रयोजनम्  । उपदेशादयोऽपि काव्यस्य  प्रयोजनानि विद्यन्ते । अतः विद्या ,  शास्त्रं च भवति ।

उपसंहारः-

लोके सत्यं वद , धर्मं चर इति कथनादपि हरिश्चन्द्र उपाख्यानरूपेण प्रोक्तः सत्यं धर्मविषय जनेषु तद्विषये प्रीतिं   जनयति ,  आचरणाय  च  प्रेरको  भवति ।  सैव  हरिश्चन्द्र  विषयः  प्रबन्ध   निबन्ध   रूपेण  यदि  उच्यते   तर्हि  लोकस्य   परमादरणीया   भवती    यत्र  निस्संशयः ।   एवं   काव्यमार्गस्य   आविर्भावे  कारणं  श्रुतिस्मृतीतिहासादीनां     विषयाणां व्यक्तित्वविकासः प्रभावात्मकतया  च  प्रतिपादनेमेवेति ज्ञायते । सहितयोः भावः साहित्यम्  इति ।

उपर्युक्त ग्रन्थसूची-

1 ‘‘पञ्चमहाकाव्येषु ललितकलाविज्ञानम्‘‘।   परिशोधना ग्रन्थः- डा. एम् . वाणीकुमारी.,

  1. संस्कृतसाहित्येतिहासः ।     3. काव्यप्रकाशः।    4. साहित्यदर्पणम् ।
  2. रामायणम् ।   6. महाभारतम् ।   7. रघुवंशम् ।   8. कुमारसम्भवम् ।

……… धन्यवादाः ………

इति शम्


free vector

96 Responses to संस्कृत साहित्यं व्यक्तित्वविकासः

Leave a Comment

Name

Email

Website